स्वागत
गीत
अयि ! मान्या महानुभावा ! भवतो वयं नमामः ।
कुलमागतं गुरूणाम् अतिथीन्हृदाचंयामः ॥ १ ॥
निगमोक्त शिक्षणं यत् चिरकालतो विलुप्तम्।
ऋषिणा पुनः प्रदीप्तं व्रतिनो मुदाश्रयामः ॥ २॥
विमलार्य संस्कृतिं स्वां प्रशितार्य सभ्यतान्ताम् ।
उद्धर्तुमत्र यत्नं तपसा वयं विदध्मः ||३||
स्वदेशवेशभूषां निजधर्म रोतिनीतिम् ।
सुखदामार्य भाषाम् उदयं वयं नयाम: ||४||
कुलवासिनो वयं वः किमिवार्चनं नु कुर्मः ।
श्रद्धामयै: सुभावैः कुसुमैः सुपूजयामः ||५||
धन्यं कुलं न आर्या: विदुषां व आगमेन ।
उपदिश्यतां बुधेन्द्रै: वचनामृतं पिबेम ||६||
आर्य कवीन्द्र मेधा व्रताचार्यः
.jpeg)
.jpeg)
.jpeg)
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें