भारत देशो, विभूषित वेशो, विशेष विलासस्त्रिभुवने विराजते।
मम देशो वेदवाणीं प्रकाशते ........।।
भुवनेषु धूमः शुभगन्धयुतोऽयं,
व्याप्नुते
हवनाश्रितो ।
विद्यापिपासु ब्रह्मचारी
गणोऽयं,
राजते
च कुले गुरोः ।
आम्र निकुञ्जे-2,
कोकिल
कूजो गुञ्जति वारं वारम् ।
पश्य शोभा कथं रमणीया,
सदा
वरणीया वसन्त समागमे ।।
मम देशो वेदवाणीं
प्रकाशते ........।।
बहवो बभूवुरिह
क्षत्रियवीराः,
धार्मिकाः
जनपालकाः ।
श्रीकृष्णचन्द्रं
रामचन्द्रराघवं को नु बोधति धन्विनम्।
महाभारते -2,
युद्धे
भीमार्जुनयोर्विक्रम चरितम् ।
वीरभूमे! नमो मातृभूमे!
धान्यधनपूर्णे सदाशस्य श्यामले।।
मम देशो वेदवाणीं
प्रकाशते ........।।
चरणानि यस्य सततं
क्षालयते,
दक्षिणादिशि
सागरो ।
शैलाधिराजो रमते
चोत्तरस्यां,
देवतात्म
हिमालयो।
गंगा तीरे-2 निर्मल नीरे
नृत्यति नौकायानम्।
शीतवातोऽरविन्द सुगन्धं
प्रसारयते ऽयं विशाले सरोवरे।।
मम देशो वेदवाणीं
प्रकाशते ........।।
.jpeg)
.jpeg)
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें