ओ३म्
👉व्याकरण सूत्र
संज्ञा च परिभाषा च विधिर्नियम एव च।
अतिदेशोऽधिकारश्च षड् विधं सूत्रलक्षणम्।।
😊
1. संज्ञा - नामकरणं संज्ञा। (हलन्त्यम्, तुल्यास्यप्रयत्नं सवर्णम्, यचिभम्)
2. परिभाषा - विधिसूत्रस्य पथप्रदर्शकं परिभाषा। (तस्मिन्निति निर्दिष्टे पूर्वस्य)
3. विधि - साक्षात् लक्ष्यसंस्कारकः विधिः। (इको यणचि, अनचि च)
4. नियम - बहुत्र प्राप्तौ संकोचनं नियमः। (पतिः समास एव, रात्सस्य)
5. अतिदेश - यो यादृशो नास्ति, तादृशं स्वीकरणमतिदेशः। (अन्तादिवच्च)
6. अधिकार - एकत्र पठितस्य (पदस्य) अग्रेऽपि सूत्रेण लाभः अधिकारः। (प्रत्ययः)
Namaste Ji
जवाब देंहटाएं